. लेखनवर्गः [ २५ ] स्यात् खललं हरकती मुगेकीलं विघ्नमुच्यते || समुदायस्तु मीमजुम्ला द्यानतिः शुद्धवासना || २९२ ॥ सरंजामी नाम बुधा अनुकूलं प्रचक्षते ॥ पवानगी निदेश: स्यात् संदेहस्तु रसानगी ॥ २९३ ॥ इतरत्तु दफाते स्याद् अरीन्वखनस्तु सांप्रतम् || पूर्वप्रमाणमिति तत् सदई नामकं जगुः ॥ २९४ ।। आज्ञाप्रमाणं तु तथा बहुकूमं प्रचक्षते ॥ विशेषो मजकूर: स्याद् वार्ता खबर-नामिका ॥ २९५ । खबर्दार स्ववहितः सावधानस्तथा हुशार् || गुजारति: साक्षिता स्याद् दिग्रतिः स्यादनन्तरम् ॥२९६॥ लावूद: स्वल्प इत्युक्तो मज्बूदस्तु दृढः स्मृतः ॥ बेहबूदस्तु भव्यं स्यादुपायस्तर्दुदः स्मृतः ॥ २९७ ॥ "धर्मो हक्क इति प्रोक्तो नाहक्कोऽधर्मनामकः ।। 9 गुमशुदो गुप्त नामा स्याल लुगारी लुण्ठनं स्मृतम् ।।२९८ ॥ जास्तं नामाधिकं ज्ञेयं वजायी न्यूनमुच्यते ॥ जुलुमस्तु बलात्कारो जानं जीव: १५७ प्रकीर्तितः ॥२९९॥ अन्यायवार्ता फिर्यादि बजे ज्ञेयमवान्तरम् || 9 प्रान्तो नाम जिल्हे अर्जिदास्तं विनतिपत्रकम् ॥ ३०० ।। नैश्चियं बेगमी नाम कुटुम्बं कबिला भवेत् || अनुरूपं वाकिफं स्यात् तदर्थं मुजदं भवेत् ॥ ३०१ ॥ मोहता परिमितं युग्मं जोडा इतीरितम् || साज: प्रसाधनं ज्ञेयं सर्फा तु हितमुच्यते ॥ ३०२ ॥ देहंदगी तु दातृत्वं बक्सीसं पारितोषिकम् || धर्मादायस्तु खैराति रभसत्रं तु लंगर * ॥ ३०३ ॥ चूप नाम तु विदुस्तूष्णी मर्यादा त्वदवाभिधा ॥ अमर्यादा बेअदबी यथावश्यं तु हाल्खुदं ॥ ३०४ ॥ १५३ 'कीतिर्नामोश नाम्नीस्यात्' | हा पाठभेद २९० श्लोकाच्या तिसरे चरणाचा होय. १५५ ' रिश्कीलं' पाठभेदः | + 'इमति:' पा॰भे०. १५६ ' सत्ता हक्क ' पाठभेद: १५७ ' हानि: ' पाठभेदः
- 'जंगरं' पा० मे.
म. म. द. वा. पोतदार, Se