Jump to content

पान:राज्यव्यवहारकोश.pdf/१६

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले आहे
[ ६ ]
राजव्यवहार कोशे
कटिबन्ध: कमबंदा विज्ञारूर्ध्वमुखी भवेत्
चादर: स्यात् प्रावरणी निचोलो दुतु-नामकः ॥ ५९॥
कौपसकञ्चुको नाम डगला पान्थकञ्चुक:- ॥
ज्ञेयः फतू नाम बुधैः कुती कूर्परकञ्चुकः
थिरमा पार्वतीयोर्णा पलोदारस्तु पल्लवी
सलायी तु शलाकी स्यान् म्याना मध्यमईरितः ६१
किनारा तु प्रदेश: स्यात् तस्बी हेमगुणान्वितम् ॥
सौवर्णतान्तवं नग्दी पटेदारस्तु रेखितः
भर्जरी स्वर्णभरितं गन्धाली चर्मपोस्तनी
ऊर्णावस्त्रं तु शाल: स्याच्छशोणं तोष नामकम् ६३
दुर्मा तु राङ्कवं ज्ञेयं सखलाद् द्वीपकम्बलः
इन्द्रगोपस्तु मखमलू ताफ्ता कौशेयनामकः ॥६४॥
सोनेरीनिलखः स्वर्णपटो रौप्यपटस्तथा ॥
रुपेरीनिलखश् छीटं चित्रवस्त्रमुदाहृतम् ॥ ६५ ॥
यद् बुटेदार निलखः स पुष्पितपटः स्मृतः ॥
पुष्पितोर्णा चिकंदोजी शालाख्या परिभाषिता॥६६॥
खिसा तु गोपकमुपावरणं दुपटा भवेत् ॥
पासोडी ट्रिपटी ज्ञेया साडी स्त्रीवसनं तथा ॥ ६७ ॥
अन्तरीयं तोहबंदश्चोली कूर्पासनामिका ॥
पाटावं चित्रकौशेयं दुकूलं मुकटा भवेत् ॥ ६८ ॥
गोश्पेचः कर्णबन्धः स्याद् दुस्ता स्याद्वस्त्रपञ्चकम् ।।
नीशारो नाम फर्गोलो वराशिर्बुरुखा तथा ॥ ६९ ॥
तोसदानं जीवनकं संदूकस्तु समुद्रकः ॥
समूरुचर्म गदितं सामरं नाम कोविदः ॥ ७० ॥
ज्ञेयं सुवासचर्मेति बुलगारा भिधानकम्
तमाचाऽविकचर्म स्याद् वस्तु निर्माण नाम तु- ॥७१॥
ससकर्दनमित्युक्तं बेतणी रूपिकाभिधा
११. 'कार्पासकंचुकं' पा० भे०

४४. ' पटावं ' पा० मे.

३२. ' स्मृतं ' पा० मे०

४५, “ कोशयम् "पा० मे.

१३. ' तहबंद ' पा० भे०