Jump to content

पान:राज्यव्यवहारकोश.pdf/१५

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले आहे
कार्यस्थानवर्गः

[ ५ ]

नासामणिर्नथो मुक्ताफलं मोती फुल तितु -- ॥
नासापुष्प, बाहुमणिर्वाजूबंदाभिधायकः ॥ १६ ॥
अङ्गदं तोलँबंदः स्यान्मणिबन्धः स्तथा जवे ॥
पहुंच्या स्यान्मणिकटो मुद्रिकात्वांगठी मुदी
शस्तमंगुष्ठकं हस्तकडे स्याद् हस्तकङ्कणम्
कणिका स्यात् तानवडं वांकी कूर्परभूषणम् ॥१८॥
तथा मोहनमाला तु ज्ञेया प्रालम्बिका बुधैः
कटिसूत्रं जर्कमरो घुंगरुः किङ्किणी स्मृता ॥ ४९ ॥
जजेरिया शुडलिका पैंजणें नूपुरं स्मृतम् ॥
पोल्हारा तु तुलाकोटिर् बाला हंसकनामकः ॥ ५० ॥
हिरा तु वज्रं माणिक्यं लालो नीलः समोद्वयोः ॥
पाँचो गारुत्मक्रमणिः पुष्कराजः समोद्वयोः ॥ ११ ॥
स्याद् वैदूर्यं लसणिया गोमेदोऽप्युभयोः समः ॥
गुली नाम प्रवाल: स्याद् बिलोरः स्फटिको भवेत् ५२
हुँमा पक्षोद्भवा या तु कलगी पक्षावतंसकः ॥
काचसारस्तु मीना स्यात् सफाप: काचईरितः ५३
औरखाना स्वर्णशाला सुवर्णं जर नामकम्
रौप्यं रूपा तथा ताम्र तांबा पित्तलकं पितलू ५४
स्यात् संगवसरि र्धातुविशेष: सरकाभिधः ॥
कांसे कांस्यं सिसें सीस कथिलं वंगमुच्यते ॥५५॥
कालायसं तु पोलादः स्यालाहमुभयोः सँमम्
जाम्दारखाना तु वसनागारं तस्य हवालदार ॥५६॥
वस्त्राधिकारी, तत्रस्थो जाम्दारो वस्त्ररक्षकः
निर्विसिंदा त्वस्य वस्त्रलेखकः परिकीर्तितः ॥ ५७ ॥
शिरोवेष्टनमित्येतन्मुंडासें कञ्चुकं झगा
मंदीलं नाम विज्ञेयमूष्णीषं स्वर्णरौप्यजम् ॥ ५८ ॥

३५. 'तोलबंदीस्यात्' पा भे०

३८.'उमा मौक्तिकनामास्यात्'

३३. ' ज्ञेया मोहनमाला तु बु-

पा०भे०

धर्नैया प्रलंबिका' पा० मे

३९.जर्गर्खाना स्वर्णशाला

३७. ‘ पाचिर् ' पा० भे०

स्वर्ण रजतनामकम' पा० भे

३०. 'पित्तलि कं पित' पाने