कार्यस्थानं तु कार्खाना-नामत: परिभाषितम् ||
कोशागारं खजीना स्याज् जामदार: कोशरक्षकः ३४ ॥
यस्तस्य तु हवालदार: कोशपाल : स ईरितः ॥
अधिकारी सैनिकानां सहवाल्दार नामकः ॥ ३५ ॥
निक्षेपस्तु दफीना स्याद् दास्तानं संचितं स्मृतम् ॥
व्ययस्थानं खर्चपोते तदीयस्तु हवालदार ॥३६॥
व्ययाधिकारी, तस्यैव जाम्दारो व्ययकिङ्ककरः ||
तंत्रत्यो निविसिंदा यः स भवेद् व्ययलेखकः ॥३७॥
पोतदारो नाम बुधैर्ज्ञेयो द्रव्यपरीक्षकः ॥
द्रव्यं तु नख्त-संज्ञं स्याद् वँराँटो होन उच्यते ॥३८
तदर्धं तु प्रतापः स्याद् भाषयोरुभयोरपि ॥
वराटपादो धरणशू चवलस्त्वष्टमांशकः ॥ ३९ ॥
दुवल: षोडशांशः स्यान्मोहरा तु बुधैः स्मृतम् ||
सुवर्णनिष्कं, रजतनिष्कं स्याद् रुपयाभिधम् ॥४०॥
वाच्या रजतवर्ती तु लाहरी फलमः पणः ॥,
ताम्रद्रव्यं तु खुर्दा स्याद् बस्तनं बन्धनं स्मृतम् ॥४१॥
कर्तनं तु परिज्ञेयं वोटनं सूक्ष्मदृष्टिभिः ॥
रत्नशाला जवाहीरखाना तस्य हवालदार्- ॥४२॥
रत्नाधिकारी, जाम्दारो रत्नभूयः प्रकीर्तितः ॥
भवेद्रत्नपरीक्षस्तु जोहरी भूषणं नगः ॥ ४३ ॥
तुराऽवतंसः पदकं ज्ञेयं वै कतैकाभिधम् ||
ग्रैवेयकं धुग्धुगी स्यात् कुडक्या कर्णभूषणम् ॥४४॥
सीस्फुलं तु शिरःपुष्पं भांग्लील तु ललामकम् ||
तिलक: स्याद् बिजवरा नासापुष्पं तु बेसरम् ॥४९॥
'२९.८२ सर्वाधिकारकः प्रोक्तः ३२. ‘कृतकाभिधम्'पा० मे० ३०. ' वराहो ' पाः भे० ३. ‘ कर्णकुण्डलम् 'पा ३१. ' कर्दन्' पा. भे० ३४. 'भोगितलातु' पा० भे