टीका - एवं योगस्य स्वरूपमुक्त्वा संप्रज्ञातासंप्रज्ञातरूपभेदमाह ॥ वितर्केति ॥ भाव्यस्य विषयांतरपरिहारेण चेतसि पुनःपुनर्निवे- शनं भावना । भाव्यंच द्विधा । ईश्वरस्तत्वानिच । तान्यपि द्विधा जडाजडभेदात् । जडानि चतुर्विंशतिः । अजडः पुरुषः ॥ संप्रज्ञातः सम्यक् संशयविपर्ययरहितत्वेन प्रज्ञायते प्रकर्षेण ज्ञायते भाव्यस्य स्वरूपं येन सः समाधिः भावनाविशेषः । ध्येयातिरिक्तसकलवृत्ति- निरोधः संप्रज्ञातः सबीजसमाधिरिति यावत् । सः वितर्कविचारा- नंदा स्मितानुगमात् वितर्कादिभेदात् चतुर्विधः सवितर्कस्सविचार- सानंदस्सास्मितश्च ॥ यदा महाभूतेंद्रियाणि स्थूलानि विषयत्वेनादा य पूर्वापरानुसंधानेन शब्दार्थोलेखसंभेदेनच भावना प्रवर्तते तदा सवितर्कस्समाधिः । अस्मिन्नेवावलंबने पूर्वापरानुसंधानशब्दार्थोल्लेख- शून्यत्वेन यदा भावना प्रवर्तते तदा निर्वितर्कः ॥ तन्मात्रांतःकरण- लक्षणं सूक्ष्मं विषयमालंब्य तस्य देशकालधर्मावच्छेदेन यदा भाव- ना प्रवर्तते तदा सविचारः । तस्मिन्नवावलंबने देशकालधर्मावच्छेद विना धम्ममात्रावभासितत्वेन भावना क्रियमाणा निर्विचार इत्युच्यते ॥ यदातु रजस्तमोलेशानुविद्वमंतःकरणसत्वं भाव्यते तदा गुणभावात् चिच्छक्तस्सुखप्रकाशमयस्य सत्वस्य भाव्यमानस्योद्रेकात्सानंदस- माधिर्भवति ॥ ततः परं रजस्तमोलेशानभिभूतं शुद्धं सत्वमालंबनी- कृत्य या प्रवर्त्तते भावना तस्यां ग्राह्यस्य सत्वस्य न्यग्भावाच्चि - च्छक्तेरुद्रेकात्सत्तामात्रावशेषत्वेन समाधिस्सास्मित इत्युच्यते ॥ न च अहंकारास्मितयोरभेदः शंकनीयः । यतो यत्रांतःकरणमहमि- त्युलेखेन विषयान् वेदयते सोहंकारः । यत्रांतरमुखतया प्रतिलोमप- रिणामेन प्रकृतिलीने चेतसि सत्तामात्रमवभाति साऽस्मिता । तत्र स- वितर्क समाधौ चतस्रोऽ ऽप्यवस्थाः शक्तिरूपतयावतिष्ठते । तत एकैक स्यारत्यागे उत्तरोत्तरा इति चतुरवस्थोऽयं संप्रज्ञातः समाधिः ॥ १७ ॥
पान:योगसूत्रें-समाधिपाद.pdf/४२
Appearance
या पानाचे मुद्रितशोधन झालेले आहे
९
वितर्कविचारानन्दा स्मितानुगमात्संप्रज्ञातः ॥१७॥