गोकुलेशाष्टकम

विकिस्रोत कडून
येथे जा: सुचालन, शोध

गोकुलेशाष्टकम् नन्दगोपभूपवंशभूषणं विभूषणं भूमिभूतिभूरिभाग्यभाजनं भयापहम्। धेनुधर्मरक्षणावतीर्णपूर्णविग्रहं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥ १ ॥

गोपबालसुन्दरीगणावृतं कलानिधिं रासमण्डलीविहारकारिकामसुन्दरम्। पद्मयोनिशंकरादिदेवबृन्दवन्दितं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥ २ ॥

गोपराजरत्नराजिमन्दिरानुरिङ्गणं गोपबालबालिकाकुलानुरुद्धगायिनम्। सुन्दरीमनोजभावभाजनाम्बुजाननं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥ ३ ॥

कंसकेशिकुञ्जरादि दुष्टदैत्यदारणं इन्द्रसृष्टवृष्टिवारिवारणोद्धृताचलम्। कामधेनुकारिताभिधानगानशोभितं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥ ४ ॥

गोपिकागृहान्तगुप्तगव्यचौर्यचञ्चलं दुग्धभाण्डभेदभीतलज्जितास्यपङ्कजम्। धेनुधूलिधूसराङ्गशोभिहारनूपुरं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥ ५ ॥

वत्सधेनुगोपबालभीषणास्यवह्निपं केकिपिञ्छकल्पितावतंसशोभिताननम्। वेणुनादमत्तघोषसुन्दरीमनोहरं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥ ६ ॥

गर्वितामरेन्द्रकल्पकल्पितान्नभोजनं शारदारविन्दबृन्दशोभिहंसजागतम्। दिव्यगन्धलुब्धभृङ्गपारिजातमालिनं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥ ७ ॥

वासरावसानगोष्ठगामिगोगणानुगं धेनुदोहदेहगेहमोहविस्मयक्रियम्। स्वीयगोकुलेशदानदत्तभक्तरक्षणं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥ ८ ॥